|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.25. अध्यायः 025
Mahabharata - Drona Parva - Chapter Topics
द्वन्द्वयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-25-0x(4319)(45796)
महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः॥ 7-25-1(45797)
तैश्चोद्भूतं रजस्तीव्रमवचक्रे चमूं तव।
ततो हतममंस्याम द्रोणं दृष्टिपथे हते॥ 7-25-2(45798)
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः।
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत्॥ 7-25-3(45799)
यथाशक्ति यथोत्साहं यथासत्वं नराधिपाः।
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्॥ 7-25-4(45800)
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव।
आराद्दृष्ट्वा किरन्बाणैरिच्छन्दोणस्य जीवितम्॥ 7-25-5(45801)
तं बाणेरवतस्तार क्रुद्धो मृत्युरिवाहवे।
तं च भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत्॥ 7-25-6(45802)
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः।
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन्परान्युधि॥ 7-25-7(45803)
कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशाम्पते।
पर्यवारयदायान्तं शूरं समरशोभिनम्॥ 7-25-8(45804)
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्।
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्॥ 7-25-9(45805)
सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः।
उग्रधन्वा महेष्वासं यत्ततो द्रोणादवारयत्॥ 7-25-10(45806)
क्षत्रवर्मा सिन्धुपतेश्छित्त्वा केततनकार्मुके।
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वताडयत्॥ 7-25-11(45807)
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्।
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः॥ 7-25-12(45808)
युयुत्सुं पाण्डवार्थाय यतमानं महारथम्।
सुबाहुर्भारतं शूरं यत्तो द्रोणादवारयत्॥ 7-25-13(45809)
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ।
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ॥ 7-25-14(45810)
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्।
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत्॥ 7-25-15(45811)
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्।
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्॥ 7-25-16(45812)
तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्।
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः॥ 7-25-17(45813)
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः।
आद्रवन्तं सहानीकः सहानीकं न्यवारयत्॥ 7-25-18(45814)
तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः।
यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः॥ 7-25-19(45815)
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्।
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्॥ 7-25-20(45816)
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्।
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्॥ 7-25-21(45817)
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः।
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्॥ 7-25-22(45818)
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः।
चक्रे विबाहुशिरसं भूतकर्माणमाहवे॥ 7-25-23(45819)
सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्।
द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत्॥ 7-25-24(45820)
स तु भीमरथः साल्वमाशुगैरायसैः शितैः।
षड्भिः साश्वनियन्तारमनयद्यमसादनम्॥ 7-25-25(45821)
श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः।
चित्रसेनो महाराज तव पौत्रं न्यवारयत्॥ 7-25-26(45822)
तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम्।
शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत्॥ 7-25-27(45823)
किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम्।
श्रुतकर्माणमायान्तं दौश्शासनिरवारयत्॥ 7-25-28(45824)
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ।
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्॥ 7-25-29(45825)
तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे।
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्॥ 7-25-30(45826)
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः।
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्॥ 7-25-31(45827)
प्रवपन्निव बीजानि बीजकाले कृषीवलः।
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्॥ 7-25-32(45828)
यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः।
तं पटच्चरहन्तारं लक्ष्मणः समवारयत्॥ 7-25-33(45829)
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत।
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत॥ 7-25-34(45830)
ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम्।
आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत्॥ 7-25-35(45831)
स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः।
श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः॥ 7-25-36(45832)
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्।
पर्यवारयदायान्तं युवानं समरे युवा॥ 7-25-37(45833)
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्।
विधूय तद्बाणजालं बभौ तव सुतो बली॥ 7-25-38(45834)
अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे।
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्॥ 7-25-39(45835)
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः।
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः॥ 7-25-40(45836)
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली।
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्॥ 7-25-41(45837)
स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्।
तस्य तद्धि बभौ वक्त्रं सनालमिव पङ्कजम्॥ 7-25-42(45838)
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्।
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत्॥ 7-25-43(45839)
ते चैनं भृशसन्तप्ताः शरवर्षैरवाकिरन्।
स च तांश्छादयामास शरजालैः पुनः पुनः॥ 7-25-44(45840)
नैव कर्णो न ते पञ्च ददृशर्बाणसंवृताः।
साश्वसूतध्वजरथाः परस्परशराचिताः॥ 7-25-45(45841)
पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह।
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन्प्रत्यवारयन्॥ 7-25-46(45842)
तद्युद्धमभवद्धोरमीक्षितृप्रीतिवर्धनम्।
सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः॥ 7-25-47(45843)
क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि।
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः॥ 7-25-48(45844)
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने। 7-25-49(45845)
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्।
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत्॥ 7-25-50(45846)
ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया।
स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत्॥ 7-25-51(45847)
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः।
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत्॥ 7-25-52(45848)
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ।
ते युद्धासक्तमनसो नान्यं बुबुधिरे क्रियाम्॥ 7-25-53(45849)
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्।
पर्यवारयदायान्तं यशो द्रोणस्य वर्घयन्॥ 7-25-54(45850)
स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने।
पुनः पताकां सूतं चच्छत्रं चापातयद्रथात्॥ 7-25-55(45851)
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा।
साश्वसूतध्वजरथं तं चकर्त वरासिना॥ 7-25-56(45852)
रथं च स्वं समास्थाय धनुरादाय चापरम्।
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम्॥ 7-25-57(45853)
पाण्ड्यमिन्द्रमिवायान्तमसुरान्प्रति दुर्जयम्।
समर्थः सायकौघेन वृषसेनो न्यवारयत्॥ 7-25-58(45854)
`अथाजगाम हैडिम्बो महामायो महाबलः।
पितॄणां हितमन्विच्छन्दहन्कौरववाहिनीम्'॥ 7-25-59(45855)
गदापरिघनिस्त्रिंशपट्टसायोघनोपलैः।
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः॥ 7-25-60(45856)
मुसलैर्मुद्गरैश्चक्रैर्न्भिण्डिपालपरश्वथैः।
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः॥ 7-25-61(45857)
आतुदन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्।
सेनां विभीषयन्नायाद्दोणप्रेप्सुर्घटोत्कचः॥ 7-25-62(45858)
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः।
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः॥ 7-25-63(45859)
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः।
तादृग्यादृक्पुरावृत्तं शम्बरामरराजयोः॥ 7-25-64(45860)
एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम्।
पदातीनां च भद्रं ते तव तेषां च सङ्कुले॥ 7-25-65(45861)
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः।
द्रोणस्याभावभावे तु प्रसक्तानां परस्परम्॥ 7-25-66(45862)
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो।
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च॥ ॥ 7-25-67(45863)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-25-1 भीरोर्भावो भैरवं भयमिति यावत्॥ 5-25-2 दृष्टिपथे गते इति ङ पाठः॥ 5-25-7 बाह्यं मृत्युभयं इति क.ङ.पाठः॥ 5-25-21 उत्पिञ्जलकमत्यन्ताकुलम्। तदद्भुततमं युद्धं इति क.ङ.पाठः॥ 5-25-22 भूतकर्मा सभापतिरिति द्विनामा॥ 5-25-25 भीमरथो राजभ्राता॥ 5-25-45 ददृशुः ददृशिरे॥ 5-25-51 शलाकया शङ्कुना॥ 5-25-60 अयोघाना कडङ्गरैर्दण्डैः॥ 5-25-62 आतुदन् व्यथयन्। प्ररुजन्विध्यन्। भञ्जन् आमर्दयन्। निघ्नन् मारयन्। विद्रावयन्पलाययन्। क्षिपन्प्रेरयन्॥ 5-25-66 आभावभावे मारणे रक्षणे च॥ 5-25-25 पञ्चविंशोऽध्यायः॥ 25 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|